1. To spread the importance of Sanskrit Sastras in the society.
समाजे संस्कृतशास्त्राणां महती आवश्यकता वर्तते। विशेषतया संस्कृतशास्त्रेषु अन्तर्हितं समाजज्ञानं, विज्ञानं, साहित्यं, राजनीतिज्ञानं, आत्मज्ञानं च सर्वेषां मानवानां महदुपकारकम् अस्ति। संस्कृतस्य वैशिष्ट्यं समाजे यथा सर्वे जानीयुः तदर्थं मम प्रयाशः चलति।
2. To translate Sanskrit Shastras in my regional language.
संस्कृतग्रन्थानां मातृभाषया ओडियाभाषया अनुवादकार्यं कृत्वा भिन्नभिन्न पत्रिकाषु तथा ग्रन्थेषु प्रकाशनं चलति। येन संस्कृतस्य महत्वं प्रसारितो भविष्यति।
3. To encourage the society to protect trees, forest and forest animals.
साम्प्रतं विश्वपरिवेशः न सुस्थः। बुद्धिजीविनः तथा परिवेशविदः तदर्थं चिन्तिताः। वेदादारभ्य उपनिषत्सु तथा भिन्नभिन्न संस्कृतशास्त्रेषु परिवेशसुरक्षाविषये महती चर्चा वर्त्तते। साहित्यशास्त्रे विशेषतया काव्यनाटकेषु च वृक्षस्य सुरक्षायै जागरुकता वर्त्तते। अतः समाजे वृक्षरोपणं वृक्षसुरक्षायै च मम कार्यम् आजीवनं भविष्यति।
4. To help a needy person.
वहुत्र दृश्यते मेधावीनः छात्राः धनाभावात् अध्ययनं कर्त्तुम् अवसरं न प्राप्नुवन्ति। तादृशान् छात्रान् पठनपाठने साहायं करोमि । समाजे वार्द्धक्यवशात् केचन अवहेलिताः दृश्यन्ते। तेषां ताषां कृते च किमपि कर्तुं परियोजना अस्ति।